पुनरावृत्ति परीक्षा- I
कक्षा VIII, संस्कृत
पाठ 2- बिलस्य वाणी न कदापि मे श्रुता कुल अंक- 15
1. अधोलिखितानां शब्दानां अर्थान् लिखत- 5x1=5
(i) कस्मिंश्चित् (ii) निगूढो भूत्वा (iii) वेपथु:
(iv) भोज्यम् (v) सिंहपदपद्धति
2. अधोलिखितस्य गद्यांशस्य पठित्वा प्रश्नानां उत्तरं लिखत- 3x1=3
कस्मिंश्चित् वने खरनखरः नाम सिंहः प्रतिवसति स्म। सः कदाचित् इतस्ततः परिभ्रमन् क्षुधार्तः न किञ्चिदपि आहारं प्राप्तवान्। ततः सूर्यास्तसमये एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्-'नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति।
(i) सिंहस्य नाम किम् अस्ति?
(ii) सिंहः किं दृष्ट्वा अचिन्तयत्?
(iii) गुहा कीदृशी आसीत्?
3. अधोलिखितानां प्रश्नानां एकपदं उत्तरं लिखत- 2x1=2
(i) गुहाया: स्वामी कः आसीत्?
(ii) गुहा केन प्रतिध्वनिता?
4. रेखांकित पदानि आधृत्य प्रश्ननिर्माणम् कुरुत- 2x1=2
(i) एषा गुहा स्वामिन: सदा आह्वानं करोति।
(ii) क्षुधार्त: सिंह: कुत्रापि आहारं न प्राप्तवान्।
5. अधोलिखितस्य पद्यांशस्य हिंदी अनुवादं कुरुत- 3
एतस्मिन् अन्तरे गुहायाः स्वामी दधिपुच्छः नामकः शृगालः समागच्छत्। स च यावत् पश्यति तावत् सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते, न च बहिरागता। शृगालः अचिन्तयत्-"अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंहः अस्तीति तर्कयामि। तत् किं करवाणि?"
टिप्पणियाँ
एक टिप्पणी भेजें
आपका बहुत-बहुत धन्यवाद....🙏🏻🙏🏻🙏🏻